________________
आगम
(०४)
प्रत सूत्रांक
[१५१]
प्रत
अनुक्रम
[२४५]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
'नेरया णं भंते!' इत्यादि सुगमं, नवरं स्थितिः -नारकादिपर्यायेण जीवानामवस्थानकाल: 'अपञ्चत्तथाणं ति नारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्त्त यावदपर्याप्तका एव भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्यासकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तमेव, पर्याप्तकानां पुनरौधिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्त्तोना भवतीति, अयं चेह पर्याप्तकापर्यातकविभागः - 'नारयदेवा तिरिमणुयगन्मया जे असंखवासाऊ । एते उ अपजत्ता उबवाए चेव बोद्धवा ॥ १ ॥ सेसा य तिरियमणुया उद्धिं पप्पोवबायकाले य । दुहओत्रिय भइयच्चा पज्जत्तियरे य जिणवयणं ॥२॥ 'ति, उक्ता सामान्यतो नारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह - 'इमीसे णमित्यादि, स्थितिप्रकरणं च सर्वे प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह – 'एव' मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्यास कलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ता एवमिहापि वाच्या, कियदूरं यावदित्याह 'जाब विजयेत्यादि, अनुत्तरसुराणामोधिका पर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त ! कियती स्थितिः ?, गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं १, अपर्याप्त करलप्रभा पृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञता ?, गौतम ! उभयथापि अन्तमुहूर्त्तमेव, पर्याप्तकानां तु सामान्यो कैवान्तर्मुहूर्त्ताना वाच्या, एवं शेषपृथ्वीनारकाणां प्रत्येकं दशानामसुरादीनां पृथिवीकायिकानां तिरक्षां गर्भजेतरभेदानां मनुष्याणां व्यन्तराणामष्टविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्म्मादीनां
For Parts Only
मूलं [१५१]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~292~