________________
आगम
(०४)
प्रत
सूत्रांक
[१४७]
प्रत
अनुक्रम
[२२८
-२३२]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्व रचितं पश्चादाचारादि, नन्वेवं यदाचारनिर्युक्तयामभिहितं 'सव्वेसिं आयारो पढमो' इत्यादि तत्कथम्?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनां प्रतीत्य भणितं पूर्व पूर्वाणि कृतानीति, तच पूर्वगतं चतुदर्शविधं प्रज्ञप्तं, तद्यथा-'उप्पायेत्यादि, तत्रोत्पादपूर्व प्रथमं तत्र च सर्वद्रव्याणां पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्गेणीयं द्वितीयं तत्रापि सर्वेषां द्रव्याणां पर्यवाणां | जीवविशेषाणां चात्रं- परिमाणं वर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणं पण्णवतिः पदशतसहस्राणि, 'वीरियं'ति वीर्यप्रवादं तृतीयं तत्राप्यजीवानां जीवानां च सकर्मेतराणां वीर्य प्रोच्यत इति वीर्यप्रवादं तस्यापि सप्ततिः पदशतसहस्राणि परिमाणं, अस्तिनास्तिप्रवादं चतुर्थे, यद्यलोके यथास्ति यथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितं, तदपि पदपरिमाणतः षष्टिः पदशतसहस्राणि ज्ञानप्रवादं पञ्चमं, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता तस्मात् ज्ञानप्रवादं तस्मिन् पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं पर्छ सत्यं संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादं तस्य पदपरिमाणं एका पदकोटी पद च पदानीति, आत्मप्रवादं सप्तमं 'आय'त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादं, तस्य पदपरिमाणं पविंशतिः पदकोट्यः कर्म्मप्रवादमष्टमं ज्ञानावरणादिकमष्टविधं कर्म्मप्रकृतिस्थित्यनुभाग| देशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्म्मप्रवादं, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति, प्रत्या
द्रष्टिवाद अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Pernal Use On
मूलं [१४७] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~272~