SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१], ---- ----------------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक इति तारकस्तेन, तथा बुद्धेन जीवादितत्त्वं, तथा बोधकेन जीवादितत्त्वमेवापरेषां, तथा मुक्तेन वायाभ्यन्तरपन्धिव-1ई न्धनात् , मोचकेन तत एव परेषां, तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेक भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात् , अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात् , अरुजम्-अविद्यमानरोग, शरीरमनसोरभावात् , अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात् , अक्षयम्-अनाशं साद्यपर्यवसितस्थितिकत्वात्, अक्षतं या परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात् , 'अपुनरावर्तकम् अविद्यमानपुनर्भवावतारं, तबीजभूतकाभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठति यस्मिन् कर्मकृतिकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं-क्षीणकर्मणो जीवस्य खरूपं लोकाग्रं वा, जीवखरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं सम्प्रासुकामेन-यातुमनसा न तु तत्प्राप्तेन, तत्मासस्थाकरणत्वेन प्रज्ञापनाऽभावात् , प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तम' इति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता 'इम' ति इदं वक्ष्यमाणतया प्रत्यक्षमासनं च द्वादशाङ्गानि यसिंस्तद् द्वादशाङ्गं गणिनः-आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालचुकवाणिजकस्य पिटकं सर्वसाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वखाधारकल्पं भवतीति भावः, प्रज्ञसं तीर्थकरनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितं, 'तद्यथे 40 अनुक्रम भगवन् महावीरस्य 'वीर शक्रस्तव' रूप विशेषणस्य व्याख्या: ~20~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy