SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३४], ------------------------- ----- मूल [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक [३४] बाह्याभरणविशेषाः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भिती भुजी ययोस्ती तथा यक्षी-देवाविति विंशतितमः २०, वृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षः-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानां प्रादुर्भाव इति विंशतितमः २० 'पबाहरओ'त्ति प्रत्याहरतो-याकुर्वतो भगवतः 'हिययगमणीओ'त्ति हृदयङ्गमः 'जोयणनीहारी'ति योजनातिक्रमी खर इत्येकविंशः २१ 'अद्धमागहीए'त्ति प्राकृतादीनां पण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लसौ मागध्या मित्यादिलक्षणवती सा अस-1 माश्रितखकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ 'भासिजमाणी'ति भगवताऽभिधीयमाना 'आरियमणारियाणं ति आर्यानार्यदेशोत्पन्नानां द्विपदा-मनुष्याश्चतुष्पदा-गवादयः 'मृगा'आटब्याः पशवों ग्राम्याः पक्षिणः प्रतीताः सरीसुपा-उरःपरिसप्पा भुजपरिसप्पाश्चेति, तेषां किम् ?-आत्मन आत्मनः-आत्मीयया आत्मीययेत्यर्थः भाषातया-भाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा ? इत्याह-हितम्-अभ्युदयः शिव-मोक्षः सुख-श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति । प्रयोविंशः २३ 'पूर्वबद्धवेरे'त्ति पूर्व-भवान्तरेऽनादिकाले वा जातिप्रत्ययं बढ़-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्ये देवा वैमानिका असुरा नागाश्च-भवनपतिविशेषाः सुवर्णाः-शोभनवर्णोपेतत्याज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धवों प्रत अनुक्रम [११०] CRICA REaratinimali तीर्थकरस्य चतुस्त्रिंशत-अतिशया: ~134~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy