________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३४], ------------------------- ----- मूल [३४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[३४]
अथ चतविंशत्तमस्थानके किमपि लिख्यते-'बुद्धाइसेस' ति बुद्धानां-तीर्थकृतामतिशेषाः-अतिशया बुद्धातिशेषाः, अवस्थित-अवृद्धिखभावं केशाश्व-शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति । द्वन्द्वैकत्वमित्येकः १ निरामया-नीरोगा निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३ तथा पनं च-कमलं [च] गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुछ वा गन्धद्रव्यविशेषस्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारंॐ अभ्यवहरणमूत्रपुरीपोत्सगौं, प्रच्छन्नत्यमेव स्फुटतरमाह-अदृश्यं मांसचक्षुपा न पुनरवध्यादिलोचनेन पुंसा इति
पञ्चमं ५ एतच द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययं । तथा 'आगासगर्य'ति आकाशगतं-व्योमवर्ति आका
शगतं (क) वा-प्रकाशमित्यर्थः, चक्र-धर्मचक्रमिति षष्ठः ६ एवमाकाशगं छत्रं छत्रत्रयमित्यर्थ इति सप्तमः ७ आकाकाशके-प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिय यदत्यन्तमच्छं स्फटिकर
तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ 'आगासगओं'त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः 'कुडभि'दति लघुपताकाः संभाव्यन्ते ताभिः परिमण्डितश्चासावभिरामश्च-अभिरमणीय इति विग्रहः 'इंदज्झओं' त्ति शेषध्व
जापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओं' ति जिनस्वातो गच्छतीति दशमः १० 'चिट्ठन्ति वा निसीयन्ति वत्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति-उपविशन्ति 'तक्ख
प्रत
अनुक्रम [११०]
winarainrary.org
तीर्थकरस्य चतुस्त्रिंशत-अतिशया:
~1324