________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
54
प्रत
सूत्रांक
[६२-६३]
दीप अनुक्रम [६२-६३]]
यपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्तिनां च तत्त्वपरिच्छेदसमाधानादीनां कारणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षणनभोगमनादिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अदृष्टमप्यनुमीयतं इति, आह च-“आह पहाणे नाणं न चरितं नाणमेव वा सुद्धं । कारणमिह न उ किरिया साऽवि हु नाणत्फलं जम्हा ॥१॥जह सा नाणस्स फलं तह सेसपि तह बोहकालेवि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥२॥ जं च मणोचिंतियमंतपूयविसभक्खणादि बहुभेयं । फलमिह तं पञ्चखं किरियारहियस्स नाणस ॥३॥" ति, अत्रोच्यते, यत्तावदुक्तम्-'ज्ञानमेव प्रधान ज्ञानमेव चैक कारणं न क्रिया, यतो ज्ञानफलमेवासाविति, तदयुक्तम् , यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकं, ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं युक्तं कारणं, नाप्रधानमकारणं चेति, अथ युगपदुपकुरुतस्तत उभयमपि युक्तं, न युक्तमप्राधान्य क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षा
आह प्रधानं नं न चारित्रं ज्ञानमेव वा शुदं कारणमिह नैव किया सापि ज्ञानफले यस्मात् ॥१॥ यथा सा शानस फर्ड तथा शेषमपि बोधकाळेऽपि विपरिच्छेदमयं रागादिविनियहो यश्च ॥ ३॥ यथ मनश्चिन्तितमन्त्रस्त विषभक्षणादि बहुभेदं फल मिह तत् प्रत्यक्षं कियारहितस्य ज्ञानस्य ॥३॥
JAMEducational
~99~