SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [86] [भाग-5] “स्थान” - अंगसूत्र - ३ Education उद्देशक [-], मूलं [ ४७ ] स्थान [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ( मूलं + वृत्ति:) | दुर्ग्रह इति संसर्गजत्वादेव नोक इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १ वैशद्यच्छेदनकृत्कटुकः २ अन्नरुचिस्त| म्भूनकृत्कषायः ३ आश्रवणक्केदनकृदम्लः ४ ह्लादनवृंहणकृन्मधुरः ५ संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र | कर्कशः कठिनोऽनमनलक्षणः १ यावत्करणात् मृद्वादयः पडन्ये, तत्र मृदुः सन्नतिलक्षणः २ गुरुरधोगमनहेतुः ३ लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ४ शीतो वैशद्यकृत् स्तम्भनस्वभावः ५ उष्णो मार्दवपाककृत् ६ स्निग्धः संयोगे सति संयोगिनां बन्धकारणं ७ रूक्षस्तथैवायन्धकारणमिति । उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां 'एंगे पाणाइवाएं' । इत्यादिना ग्रन्थेन 'दंसणसले' इत्येतदन्तेन तामेवाह एगे पाणातिवाद जाव एगे परिगाहे । एगे कोथे जाव लोभे । एगे पेजे एगे दोसे जाव एगे परपरिवाए । एगा अरतिरती । एगे मायामोसे। एगे मिच्छादंसणसले । (सू० ४८ ) । एगे पाणाइवायवेरमण जाय परि०वेरमणे । एगे कोहविवेगे जाव मिच्छादंसणसहचिवेगे ( सू० ४९ ) तंत्र प्राणाः- उच्छासादयस्तेषामतिपातनं प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तञ्च - " पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुतास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥” इति, स च प्राणातिपातो द्रव्यभावभेदात् द्विविधो, विनाशपरितापसङ्केशभेदात् त्रिविधो वा, आह च - "तपज्जायवि णासो दुक्खुरपाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयब्बो पयत्तेणं ॥१॥"ति, अथवा मनोवाक्कायैःकरण १] तरविनाशो दुःखोत्पादव संक्लेशन एष वो जिनैर्भगितो वर्जवित्तव्यः प्रयत्नेन ॥ १ ॥ For Personal & Private Use Only ~61~ Anurayon
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy