________________
आगम
(०३)
प्रत
सूत्रांक
[ ३६५ ]
दीप
अनुक्रम [३९६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक [४], मूलं [३६५]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
कान्तिकफलवती बुद्धिरौत्सत्तिकीति, यदाह-- "पुच्छम दिट्ठम सुथम वेइयत क्खणविमुजगहियत्था । अव्याहय फलजोगा बुद्धी उप्पत्तियानाम ॥ १ ॥” इति [पूर्वमदृष्टश्रुतज्ञातस्य तत्क्षणे गृहीतविशुद्धार्था । अव्याहतफलयोगवती औ-त्पातिकी नाम्नी बुद्धिः ॥ १ ॥] नटपुत्ररोहकादीनामिवेति तथा विनयो- गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपिच - कार्यभर निस्तरणसमर्था धर्मार्थकामशाखाणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, यदाह - "भरनित्थरणसमत्था तिवग्गमुत्तत्थगहिअपेयाला । उभओ लोगफलवती विषयसमुत्था हवइ बुद्धि ॥ १ ॥ त्ति, [भरनिस्तरणसमर्था गृहीत त्रिवर्गशास्त्रसूत्रार्थसारा । उभय लोकफलवती विनयसमुत्था भवति बुद्धिः ॥ १ ॥ ] नैमि त्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्म्मणो जाता कर्म्मजा, अपिच-कर्माभिनिवेशोपलब्धकर्म्मपरमार्था कम्र्म्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, यदाह - "उवओगदिहसारा कम्मपसंगपरिघोलणविसाला साहुकारफलवती कम्मसमुत्था हवइ बुद्धी ॥ १ ॥” इति [ उपयोगद्दष्टसारा कर्मप्रसंगपरिघोलन विशाला । साधुकारफलवती कर्मसमुत्था भवति बुद्धिः ॥ १ ॥ ] हैरव्यककर्षकादीनामिवेति, परिणामः सुदीर्घकाल पूर्वापरार्थावलोकनादिजन्य आत्मधर्मः स प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपिच- अनुमानकारणमात्र दृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, | यदाह--" अणुमाणहेड दिहंतसाहिया वयविवागपरिणामा । हियनिस्सेसफलवई बुद्धी परिणामिया नाम ॥ १ ॥” इति [अनुमान हेतुदृष्टान्तसाधिका वयोविपाकपरिणामा । हितनिःश्रेयसफलवती बुद्धिः पारिणामिकीनात्री ॥ १ ॥ ] अभयकु
Education intemational
'बुध्धि' तस्या: भेदा:
For Personal Private Only
~575~