________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३५२]
दीप
यानि अस्यादीनि तानि पत्राणीति, असि:-खड्गः स एव पत्रमसिपत्रं करपत्रं-कचं येन दारु छिद्यते शुर:-छुरः स एव |
पत्रं क्षुरपत्रं, कदम्बचीरिकेति शखविशेष इति २९, तत्र द्राक् छेदकत्वादसेयः पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसि-15 181 पत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरूं छि-15
नत्ति स करपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतध
नेमार्गोऽपि सर्वथा नेहच्छेदासमर्थो देशविरतिमानमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिनहात्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति, अथवा यो गुवादिषु शीघमन्दमन्द
तरमन्दतमतया खेहं छिनत्ति स एवमपदिश्यते ३१, कम्बादिभिरातानवितानभावेन निष्पाद्यते यः स कटः कट इव
कट इत्युपचारात् तन्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे'त्ति वंशशकलकृतः13 दा'चम्मकडे'त्ति वर्द्धव्यूतमञ्चकादिः 'कंबलकडेत्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि-यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स सुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः एकः खुरः पादे पादे येषां ते एकखुरा:-अश्वादयः, एवं द्वौ
खुरौ येषां ते तथा ते च गवादयः, गण्डी-सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादादयः, 'सणफय'ति सनखपदाः नाखरा:-सिंहादयः, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकार
तेति ३४, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो-बल्गुलीमभृतयः एवं लोमपक्षिणो-हंसादयः समुद्कबत् पक्षी येषां ते समु
अनुक्रम [३७९]
~555~