________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३५२]
शेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनं यः करोत्यसावाद्यमेघसमानः, एवं स्तोकतरस्तोकतमकाहुलापेक्षया द्वितीयतृतीयमेघसमानौ असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकुर्वन् वा चतुर्थमेषसमान |
इति १५ । करण्डको-वस्त्राभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकः-चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकम्मोपहै करणवर्धादिचर्माशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् क्रिमित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः-श्रीमत्कौटुम्बिककरण्डका, स च विशिष्टमणिसुबर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति १६, एवमाचार्यों यः षट्प्रज्ञकगाथादिरूपसूत्रार्धधारी विशिष्टक्रिया विकलश्च स प्रथमः अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागावम्बरेण
मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारस्वादेव, यस्तु स्वसमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तप्रातीयः सारतरत्वात् , यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः सारतमस्यात् सुधर्मादिवदिति १५, सालो
नामैका सालाभिधानवृक्षजातियुक्तत्वात् सालस्यैव पर्याया-धर्मा बहलच्छायत्वासेव्यत्वादयो यस्य सः शालपर्याय इत्येकः, शालो नामैक इति तवैव एरण्डस्येव पर्याया धर्मा अवहलच्छावत्वाऽऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एहै रण्डो नामैकस्तथैव एरण्डपर्यायः अवहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः १८, आचार्यस्तु साल इव सालो यथा हि सालो जातिमानेवमाचार्योऽपि यः सत्कुलः सद्गुरुकुलश्च स साल एवोच्यते तथा सालपर्यायः-सालधम्मा
दीप
अनुक्रम [३७९]
~553~