SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३२३] दीप अनुक्रम [३४५] [भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [३], मूलं [ ३२३] स्थान [ ४ ], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीस्थानाज्ञसूत्रवृत्तिः ॥ २४४ ॥ गेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णमित्यादि इति देवकार्यायत्ततया मनुष्य कार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्च्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो- दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाहादकत्वाद्, एकार्थी वैती अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, 'चत्तारि पंचेति विकल्पदर्शनार्थे कदाचित् भरतादिष्वेकान्तसुषमादौ चत्वार्येवान्यदा तु पञ्चापि, मनुष्यपश्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुध्यक्षेत्रादाजिगमिषुं देवं प्रतीति इदं च मनुष्यक्षेत्रस्याशुभ स्वरूपत्वमेवोकं, न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परतः आगतं गन्धं जानातीति, अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणमुक्कं तदौदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुर्यदि परं प्रतिशब्दद्वारेणान्यथा | वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषं निगमनम् आगमनकारणानि प्रायः प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्वमूच्छितादिविशेषणो यो देवस्तस्य 'एव'मिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह - आचार्य इति वा आचार्य एतद्वास्ति इतिः - उपप्रदर्शने वा विकल्प एवमुत्तरत्रापि क्वचिदितिशब्दो न दृश्यते तत्र तु सूत्रं सुगममेवेति, इह च आचार्यः- प्रतिबोधकप्रब्राजकादिरनुयोगाचार्यो वा उपाध्यायः- सूत्रदाता प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्त्ती, प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणोऽस्यास्तीति गणी - गणाचार्यः गणधरो - जिनशिष्यविशेषः आर्थिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धः, गणस्या Education Intemational For Personal & Private Use Only ~498~ ४ स्थाना० उद्देशः ३ देवागमा नागमका रणानि सू० ३२३ ॥ २४४ ॥
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy