SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९६] बधा-सम्बन्धनं प्रदेशबन्धः, परिमितपरिमाणगुडादिमोदकबन्धवदिति, एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः-यथा किल मोदकः कणिकागुडघृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुः खादिवेदनमुखादयतीति, तथा तस्यैव मोदकस्य यधाऽविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवश्च कर्मणोऽपि ४ तद्भावेन नियतकालावस्थान स्थितिवन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भ वति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीजमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिकादिद्रव्याणां परिमाणवत्त्वं एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमा-कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतु वस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो-बन्धनादीनामारम्भः, 'स्यादारम्भ उपक्रम' इति वचनादिति, तत्र बन्धनं-कर्मापुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धन, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमः-उतार्थों बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं बन्धनं तदेवोपकमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपकमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्कं च-"ज करणेणोकहिय उदए दिज्ज उदीरणा एसा । पगईठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥" तथा उदयोदीरणानिधत्तनि १ गत्करणेनाकृष्योदये दीयत एषोदीरणा प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागाः ॥ १॥ दीप CHABAR अनुक्रम [३१५] wwwjaingana 'बन्ध' शब्दस्य अर्थ एवं भेदा: ~451~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy