SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७] नानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहुा-बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्-कुंशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुख्याऽभ्युदयार्थ या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाद्युपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा भरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या का हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । अथ धय चतुर्विधमिति स्वरूपेण चतुषु पदेषु-स्वरूपलक्षणालम्बना नुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तञ्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, कचित् 'चउप्पडोयार'मिति पाठस्तत्र चतुषु पदेषु प्रत्यवतारो यस्येति विग्रह इति, 'आणाविजए'त्ति आ-अभिविधिना शायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निणीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचर्य धर्मध्यानमिति, प्राकृतत्वेन विजय| मिति, आज्ञा या विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयं, एवं शेपाण्यपि, नवरं अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाका-फलं कर्मणां ज्ञानाद्यावारकत्वादि संस्थानानि लोकद्वी-| पसमुद्रजीवादीनामिति, आह च-"आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाथै-| पायस्तु ॥ १॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विषाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्स्वि | ॥२॥" ति, एतल्लक्षणान्याह-आणारुइ'त्ति आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं आ-14 दीप अनुक्रम [२६१] wwwjagalan चत्वारः ध्यानस्य वर्णनं ~389~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy