________________
आगम
(०३)
प्रत
सूत्रांक
[२४७]
दीप
अनुक्रम [२६१]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ],
उद्देशक [१], मूलं [२४७]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
१८८ ॥
तत्र वा भवं ऋते वा पीडिते भवमार्त्त ध्यानं दृढोऽध्यवसायः हिंसाद्यतिक्रौर्यानुगतं रौद्रं श्रुतचरणधर्मादनपेतं धर्म्य शोधयत्यष्टप्रकारं कर्म्ममलं शुचं वा लमयतीति शुक्लं, 'चडब्बिहे'त्ति चतस्रो विधा-भेदा यस्य तत्तथा, अमनोज्ञस्य-अनिष्टस्य, असमणुनस्सति पाठान्तरे अस्वमनोज्ञस्य - अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः- सम्बन्धस्तेन सम्प्रयुक्तः सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तो अस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति गम्यते 'तस्येति अमनोज्ञशब्दादेविप्रयोगाय- विप्रयोगार्थं स्मृतिः- चिन्ता तां समन्यागतः - समनुप्राप्तो भवति यः प्राणी सोडभेदोपचारादार्त्तमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे - प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिः - चिन्तनं तस्याः समन्वागतं समागमनं समन्याहारो विप्रयोगस्मृतिसमन्वागतं, चापीति तथैव भवति आर्त्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि 'तस्ये'ति अमनोज्ञशब्दादेर्विप्रयोगस्मृतिसमन्वागतमार्त्तध्यानमिति, उक्तं च - " आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्याहारः " ( तत्त्वार्थ० अ० ९ सू० ३१ ) इति प्रथममेवमुत्तरत्रापि, नवरं मनो वलभं धनधान्यादि अविप्रयोगः- अवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को--रोग इति तृतीयं, तथा 'परिजुसिय'त्ति निषेविताः ये कामाः - कमनीयाः भोगाः - शब्दादयोऽथवा कामौ - शब्दरूपे भोगाः - गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा 'परिशुसिय'ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोग
Education intemational
चत्वार: ध्यानस्य वर्णनं
For Personal & Private Use Only
~386~
४ स्थानकाध्ययने
उद्देशः १ ध्यानानि
सू० २४७
॥ १८८ ॥
www.scary.