SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [४], मूलं [११८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११३ -११८] न्तीत्यभिप्रायः, आनतादिषु चतुर्यु कल्पेषु मनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् 'दो इंदा' इत्युक्त, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र-"दो कायप्पवियारा कप्पा फरिसेण दोनि दो रूवे । सद्दे दो चउर मणे उवरिं परियारणा नत्थि ॥१॥" इयं च परिचारणा कर्मतः, कर्म च जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्वन्तीत्याह-'जीवाण'मित्यादि, सूत्राणि षट् सुगमानि, नवर, जीवा-जन्तवो, णं वाक्यालङ्कारे, द्वयोः स्थानयोः-आश्रययोस्त्रसस्थावरकायलक्षणयोः समाहारो बिस्थानम्, तत्र मिथ्यात्वादिभिर्ये निवर्तिताः-सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषटुयोग्यीकृताः द्वयोर्वा स्थानयोः निवृत्तिर्येषां ते द्विस्थाननिवृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-धातिकर्म | सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा | सम्प्रति चेष्यन्ति वा अनागतकाले केचिदिति गम्बते, चयनं च कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्र, उपचयनं तु चितस्थाबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेका, स चैवं-प्रथमस्थिती बहुतरं कर्मदलिक निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं "जाबुकोसियाए विसेसहीणं णिसिंचई" इति, बन्धनं तु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणं त्खनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम्-अनुभवः, निर्जरा-कर्मणोऽकर्मताभवनमिति । कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्रकालभावर्द्विस्थानकावतारेण निरूपयन्नाह -'दुपएसी'त्यादि सूत्राणि त्रयोविंशतिः, सुगमा चेयं, नवरं यावत्करणात् 'दुसमयहिदए'त्यादि सूत्राण्येकविंशतिर्वा ही कायप्रविचारी कल्पौ स्पर्शन द्वौ द्वौ रूपेण । द्वौ शब्देन चत्वारो मनसोपरि परिचारणा नास्ति ॥ १॥ दीप अनुक्रम [१२१ -१२६] DAIMEducatanimal wwwjanmalay देवानाम् परिचार-विषयक चर्चा: ~211~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy