SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ९९ ] गाथांक ॥१-३|| दीप अनुक्रम [१०३ -१०६] [भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [२], उद्देशक [४], मूलं [ ९९ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्था० १६ Educato जो कालो । सो कालो बोद्धव्यो, उबमा एगस्स पहस्स ॥ २ ॥ एएसिं पहाणं कोडाकोडी हवेल दसगुणिता । तं सागरोमस्स उ एगस्स भवे परीमाणं ॥ ३ ॥ ( सू० ९९ ) उपमा-औपम्यं, तथा निर्वृत्तमीपमिकं अद्धा कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धीपमिकमिति भावः तच द्विधा-पल्योपमं चैव सागरोपमं चैव तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तवल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमं, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराजाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदात् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोचत्वः पत्यो मुण्डनानन्तरमेकादि सप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालामोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येयभागमात्र सूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह च-"उद्धा रसागराणं अड्डाइज्जाण जतिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥” इति, अद्धापल्योपमसागरोपमे अपि सूक्ष्मवादरभेदे एवमेव, नवरं वर्षशते २ वालस्य वालासयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थि१ उद्धारसागरोपमयोः सार्द्वद्वययोः यावन्तः समयाः एतावन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रजुः ॥ १ ॥ For Parnal&Pre Only ~191~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy