________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [९७]
-एवमित्यादि, एवं मिति 'दोहि ठाणेही त्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियशिरप्यारमप्रदेशैरिलिकागतिकाले 'सब्वेणवित्ति सब्बैरपि गेन्दुकगतिकाले शरीरं 'फुरित्ताणं ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरक देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः-सर्व शरीर स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति । स्फोरणाश्च सात्मकत्वं स्फुटं भवतीत्याह-'एव'मित्यादि, 'एवं मिति तथैव देशेन-आत्मदेशेन शरीरक 'फुडित्ताण ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण-सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरक देशतः-सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः-सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा फुडित्ता|स्फोटयित्वा विशीर्ण कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन सर्वतः सर्वविशरणेन देवदीपादिजीववदिति । शरीरं सात्मकतया स्फुटीकुर्वस्तत्संवर्तनमपि कश्चित्करोतीत्याह-एव'मित्यादि, 'एवं मिति तथैव 'संवदइत्ताण'त्ति संवर्त्य-सङ्कोच्य शरीरकं देशेनेलिकागती शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगती सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा शरीरक-शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवनं संसारिणो बियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्ल्स-हस्तादिसङ्कोचनेन सर्वतः-सर्वशरीरसकोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्सनं कुर्वन शरीरस्य निवर्सनं करोतीत्याह-एवं 'निब्बयित्ताण'ति, तथैव निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथकृत्येत्यर्थः, तत्र देशेनेलिकागती सर्वेण गेन्दुकगती, अथवा देशतः शरीर निर्वपात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरम्
दीप
अनुक्रम [१०१]
~189~