SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||८१|| दीप अनुक्रम [८०६] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], निर्युक्ति: [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताने २ श्रुतस्कन्धे शीलाझीयावृतिः ॥४२६॥ | स्वरूपं, तद्यथा - सामान्य विशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः परिच्छेदो निगमस्तत्र भवो नैगमो, नैकगमो वा नैगमःमहासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यखजीदत्ताजीवतादिकं, विशेषाः परमाणवादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति निलयन प्रस्वकादिदृष्टान्तैरनुयोगद्वारप्रसिद्धैस्तत्स्वरूपमवसेयम्, अयं च नैगमः सामान्यविशेषात्मक वस्तु समाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्य विशेपयोराश्रयणात्, तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्रहोऽप्येवंखरूपः, तद्यथा सम्यक पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि अप्रच्युतानुत्पन्नस्थिरैकखभावमेव सत्तारूपं वस्त्रसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव, स च संग्रहः सामान्य विशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रित सांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं तद्यथा-यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ?, यथा यथा लोकेन विशिष्ट भूयिष्ठतयाऽर्थक्रियाकारि वस्तु व्यवहियते | तथैव तद्वस्वित्याबालगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययधीव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिध्यादृष्टिः, तथाविधरध्यापुरुषवदिति । ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच विनष्टानुत्पन्नतयाऽतीतानागतवत्रपरित्यागेन वर्त्तमानकालक्षणभावि यद्वस्तु वत्सूत्रयति--प्रतिपादयत्याश्रयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुवलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनवन सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति । शब्दनयस्वरूपं खिदं तद्यथा - शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमालिङ्गवचन साधनोप Education internationa For Penal Use Only ~383~ ७ नाक न्दीयाध्य ॥४२६
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy