SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२७|| दीप अनुक्रम [६०६] सूत्रकृताङ्ग शीलाङ्का चार्यांयनियुतं ॥२५३॥ [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२७...], निर्युक्तिः [१३६] कुर्वते, तस्या अपि नामादिकञ्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोतरविशिष्टाध्यवसायसंकलनम्, इदमेव वाऽध्ययनम्, आद्यन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेर्निक्षेपं कर्तुकाम आह— आदेर्नामादिकञ्चतुर्धा निक्षेपः, नामस्थापने सुगमत्वादनादृत्य द्रव्यादि दर्शयति – द्रव्यादिः पुनः 'द्रव्यस्य' परमाण्वादेर्यः 'स्वभावः' परिणतिविशेषः 'स्वके स्थाने' स्वकीये पर्याये प्रथमम् आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्य आद्यः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं क्षीरविनाशसमय एवं दध्युत्पादः ?, तथाहि उत्पादविनाशौ भावाभाव४ रूपौ वस्तुधर्मौ बर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोद धिक्षीरयोः सत्ताऽवाप्नोति एतच्च दृष्टेष्टबाधितमिति, नैष दोषः यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन खभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकलाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितं द्रव्यस्य प्राधान्येन विवक्षितत्वादिति ॥ साम्प्रतं भावादिमधिकृत्याह - भावः - अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति तद्यथा-आगमतो नोआगमतञ्च तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानलात् 'पञ्चवि धः' पञ्चप्रकारो भवति, तद्यथा--प्राणातिपात विरमणादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपतिसमय इति, तथा 'आगमओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा - यदेतद्गणिनः- आचार्यस्य पिटकं सर्वस्वमाधारो वा तद्वादशाङ्गं भव Education intol For Parts Only १५ आदा नीयाध्य० ~37~ ww ॥२५३॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'संकलिका' शब्दस्य नामादि निक्षेपाः, आदि पदस्य निक्षेपाः
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy