SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥७४|| दीप अनुक्रम [७९९ ] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [७४], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः यतीत्यनुतापिका तां तथाभूतां च खलु ते भाषां भाषन्ते, अन्यथामापणे हापरेण जानता बोधितस्य सर्वोऽनुतापो भवतीत्यतोऽनुतापिकेत्युच्यत इति । पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्बणदोषोद्विभावविषयाऽऽह - 'अन् माइक्रवंती त्यादि, ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृहतश्च श्रमणोपासकानभ्याख्यान्ति - अभूतदोपोद्रावनतोऽभ्याख्यानं ददति । किंचान्यत् – 'जेहिंवि' इत्यादि, वेष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सन्धेषु विषयभूतेषु विशिष्य ये संयमं कुर्वन्ति संयमयन्ति तद्यथा— ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दा विशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति दूषयन्ति । किमित्यत आह- 'कस्स णमित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति १, यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरलेन प्रत्यायान्ति स्थावराम त्रसलेनेति । सकायाश्च सर्वात्मना त्रसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावर कायाच्च तदायुष्कादिना कर्मणा विमुच्यमानाखसकाये समुत्पद्यन्ते तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमघात्यम्--- अघाताईं भवति यसाचेन | श्रावकेण त्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकखाल्लोकगर्हितखाच्चेति, तत्रासौ स्थूलप्राणातिपातान्निवृत्तः, तनिवृत्या च प्रसस्थानमघात्यं वर्तते, स्थावरकायाचानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवदभिप्रायेण विशिष्टसच्चोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायापनं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्यचिदपि सम्यग्वतपालनं स्यादित्येवमभ्याख्यातम् -- असभूतदोषोद्भावनं भवन्तो ददति । यदपि भवद्भिर्वर्तमानकालविशेष Education Internation For Park Lise Only ~354~ jonary.org
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy