SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥७४|| दीप अनुक्रम [७९९] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [७४], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः देतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह- 'संसारिया' इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणाः' जन्तवः स्थावराः 'प्राणिनः' पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतया - त्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति- उत्पद्यन्ते, तथा प्रसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोप:, तथाहि -नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादी व्यवस्थितं नागरिकं व्यापादयेत् किमेतावता तस्य भवेत्प्रतिज्ञाविलोपः ?, एवमत्रापि येन त्रसबधनिवृत्तिः कृता स यदा तमेव त्रसं प्राणिनं स्थावर काय स्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाविलोपः १, भवत्येवेत्यर्थः । एवमपि त्रसस्थावर काये समुत्पन्नानां त्रसानां यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं | स्यात् ततस्ते त्रसाः स्थावर खेनाप्युत्पन्नाः शक्यन्ते परिहर्तु न च तदस्तीत्येतद्दर्शयितुमाह- 'धावरकायाओ' इत्यादि, स्थावरकायात्सकाशाद्विविधम्- अनेकैः प्रकारैः प्रकर्षेण मुच्यमानाः स्थावरकायायुषा तद्योग्यैवापरैः कर्मभिः सर्वात्मना सकाये समुस्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह- 'तेसिं च ण'मित्यादि, 'तेषां च' त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति ॥ तदेवं व्यवस्थिते नागरिकदृष्टान्तेन त्रसमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति | स्वीयां प्रतिज्ञामित्येतदर्शयितुमाह- 'णण्णत्थे'त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा - 'सभूतेषु वर्तमानकाले Ja Eucation Internationa For Parts Only ~352~ waryr
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy