________________
आगम
(०२)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम [६४६]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१४], निर्युक्तिः [१५७]
इत्यादि, इह-अस्मिन् जगति 'सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाथ सारम्भाः सपरिग्रहा इत्येवं ज्ञाखा स भिक्षुरेवमवधारयेद् अहमेवात्र खल्वनारम्भोऽपरिग्रहथ, ये चाभी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया- तदाश्रयेण ब्रह्मचर्य - श्रा मण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रवज्यां करिध्याम इत्यर्थः । ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थं ते त्यज्यन्त इति जाताशङ्कः पृच्छति - 'कस्य हेतोः' केन कारणेन ? तदेतद्गृहस्थभ्रमणत्राह्मण त्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा- 'पूर्वम्' आदौ सारम्भपरिग्रहवं तेषां तथा 'पञ्चादपि' सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा 'पूर्व' गृहस्थभावे सारम्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाहयथा 'अपरम्' अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा 'पूर्वमपि' गृहस्थभावादावपीति, यदिवाकस्य हेतोस्तद्गृहस्थायाश्रयणं क्रियते यतिनेत्याह-यथा 'पूर्व' प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पञ्चादपि, अतः कथं नु नामानवद्या | वृत्तिर्भविष्यतीत्यतः साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाच तथा प्रत्यक्षेणैवोप| लभ्यन्त इति दर्शयितुमाह-- 'अंजू' इति व्यक्तमेतदेते गृहस्थादयो यदिवा- 'अञ्ज' इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावधानुष्ठानेभ्यो ऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिताः सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोत्थितास्तेऽप्युद्दिष्टभोजिला त्सावद्यानुष्ठानपरत्वाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव-गृहस्थकल्पा एवेति ॥ साम्प्रतम्| पसंहरति य इमे गृहस्थादयस्ते 'द्विधाऽपि' सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभा
Education intimation
Fürsten
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~122~