________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१||
ececeaeesectictestersecest
शन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्यु| जराकुले उच्चावचानि स्थानानि गछन्तो गर्भमेष्यन्त्यन्वेषयन्ति बाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्माप-13 चयवादिनां तदेव संसारचक्रवालभ्रमणगान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुझेझे' त्यादि, तेन च सहायं संबन्धः-तत्र बुध्येतेत्येतत् प्रतिपादितम् , इहापि यदाख्यातं नियतिवादिभिस्तदुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं संबन्धो लगनीय इति तदेवं पूर्वोत्तरसंवन्धसंबद्धस्वास्थ सूत्रस्थाधुनार्थः प्रतन्यते-पुनःशब्दः पूर्ववादिभ्यो विशेष दर्शयति, नियतिवादिनां पुनरेकेषामतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्यातेर्धातोर्भाचे निष्ठाप्रत्ययः तयोगे कर्तरि पष्ठी ततश्चाय|मर्थः-तैनियतिवादिभिः पुनरिदमाख्यातं, तेपामयमाशय इत्यर्थः, तद्यथा-'उपपना' युक्त्या घटमानका इति, अनेन च | | पञ्चभूततजीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्रान्दर्शितैव प्रदर्शयिष्यते च, पृथक् पृथक नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः ?, तदाह-'जीवा' प्राणिनः सुखदुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक' पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं मुखदुःखानुभवं निहुमहे, अनेन चाकवादिनो निरस्ता भवन्ति, अकर्तयेविकारिण्यात्मनि मुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदस्माभिर्नापलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः,ततश्वीपपातिकत्वमप्यमाभिस्तेषां १न कर्मापचय प्र.
Seesemes
अनुक्रम
[२८]
REaram
ana
~70~