SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१५|| एवमदुग्धत्वस्तोकदुग्धस्वरूपावपि हेतू न गोत्वाभावं साधयतः, उक्तन्यायेनैव दार्शन्तिकयोजना कार्येति ३५ ॥ १४ ॥ साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह संति पंच महब्भूया, इहमेगेसि आहिया । आयछटो पुणो आहु, आया लोगे य सासए ॥ १५॥ 'सन्ति' विद्यन्ते 'पञ्च महाभूतानि पृथिव्यादीनि 'इह' अस्मिन्संसारे 'एकेषां वेदवादिना सांख्यानां शैवांधिकारिणां च, ॥ एतद् आख्यातम् आख्यातानि वा भूतानि, ते च वादिन एवमाहुः–एवमाख्यातबन्तः, यथा 'आत्मषष्ठानि' आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयतिआत्मा 'लोकश्च पृथिव्यादिरूपः 'शाश्वत: अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाचाकाशस्येव शाश्वतत्वं, पृथिच्यादीनां | च तद्रूपाप्रच्युतेरविनश्वरत्वमिति ॥ १५ ॥ शाश्वतत्वमेव भूयः प्रतिपादयितुमाह-- दुहओ ण विणस्संति, नो य उप्पजए असं । सोऽवि सबहा भावा, नियत्तीभावमागया ॥१६॥ 'ते' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत इति नितुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां स्वत एव IS| निर्हेतुको विनाशः, तथा च ते ऊचुः 'जातिरेच हि भावानां, विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्ती, नश्येत्पवात्स | केन च ॥१॥" यथा च वैशेषिकाणां लकुटादिकारणसानिध्ये विनाशः सहेतुका, तेनोभयरूपेणापि विनाशेन लोकात्मनोने *१ वैशेषिकाणां दीप अनुक्रम [१५] REairaniKUnd ~58~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy