________________
आगम
(०२)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम
[५७९]
भाग
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२३], निर्युक्तिः [१२६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[ ०२], अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
'आहत्तहीय' मित्यादि यथातथाभावो याथातथ्यं - धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्त्वं सूत्रानुगतं सम्यक्त्वं चारित्रं वा तत् 'प्रेक्षमाणः' पर्यालोचयन् सूत्रार्थ सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मवादर भेदभिन्नेषु पृथिवीकायादिषु | दण्ड्यन्ते प्राणिनो येन स दण्डः -- प्राणव्यपरोपण विधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्मं नोल्लङ्घयेदिति । चियुतं 9 एतदेव दर्शयति- 'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकाङ्क्षी स्था (क्षे) त् परीषहपराजितो ॥२४०॥ ॐ वेदनासमुद्घात (समव) हतो वा तद्वेदनाम (भि) सहमानो जलानलसंपातापादित जन्तूपमर्देन नापि मरणाभिकाङ्क्षी स्वात् । तदेवं याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिषुपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं चरेद्र उद्युक्तविहारी भवेत् 'मेघावी' मर्यादाव्यवस्थितो विदितवेद्यो वा वलयेन मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विप्रमुक्त इति । इतिः परिसमाप्यर्थे । नवीमीति पूर्ववत् ॥ २३ ॥ समाप्तं च याथातथ्यं त्रयोदशमध्ययनमिति ॥
सूत्रकृताङ्गं
शीलाङ्काचार्यय
———————————
Education Internationa
१३ याथा
तध्याध्य०
अत्र त्रयोदशं अध्ययनं समाप्तं
सूत्रकृताङ्गसूत्र श्रुतस्कन्ध-१, अध्यननानि १ से १३ मूलं एवं शीलांकाचार्य रचिता टीका परिसमाप्तानि मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
~491~
॥२४० ॥