SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||8|| दीप अनुक्रम [५३८] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], निर्युक्तिः [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृता शीळाङ्का चाय चियुर्त ॥२१२॥ | तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम् ॥ १ ॥ " न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयखात्, | तथाहि न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं तथाहि यत्किमप्युपलभ्यते तस्यार्वाग्मध्य परभागैर्भाव्यं तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितखात्, अर्वाग्भागस्यापि भागत्रय कल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभाव विप्रकृष्टखादर्वा|ग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोचरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः तथाहि - यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोपानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तविश्रुतिं वितीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञानविकला इत्यवगन्तव्याः, तथाहि यत्तैरभिहितं 'ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवखसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिलं, न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञवान्यथानुपपत्तेरिति, तथाहि--प्रक्षीणाशेषावरणतया रागद्वेषमोहानामतृत कारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न | विरोधवादित्वमिति । ननु च स्यादेतद् यदि सर्वज्ञः कचित्स्यात्, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं, तथाहियत्तावदुक्तं न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दर्शिनेति' तदयुक्तं यतो यद्यपि परचेतोवृत्तीनां दुरन्वयवात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्बाधकप्रमाणाभावाच्च तदस्तित्वम Education International For Parts Only ~435~ १२ समवसरणाध्य० ॥२१२ ॥ waryru
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy