SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||2|| दीप अनुक्रम [<] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा-८], निर्युक्ति: [३२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः भाववादिनिराकरणं द्रष्टव्यम्, 'इह' अस्मिन् लोके 'एकेषां' भूतवादिनाम् 'आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्वार्हस्पत्यमतानुसारिभिराख्यातानि – खयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि तद्यथा-| पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धलात् प्रत्यक्षप्रमाणावसेयत्वाच न कैश्चिदपोतुं शक्यानि । ननु च साङ्ख्या४ दिभिरपि भूतान्यभ्युपगातान्येव तथाहि सांख्यास्तावदेवमूचुः – सत्त्वरजस्तमोरूपात्प्रधानान्महान्, बुद्धिरित्यर्थः, महतोऽहङ्कारः - अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्पोशको गण उत्पद्यते स चायम् - पश्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वापाणिपादपायूपस्थरूपाणि पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा - गन्धरसरूपस्पर्शशब्द तन्मात्राख्यानि तत्र मन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्राचेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्श वर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यमिहितवन्तः, तद्यथा- पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, व्यणुकादिप्रक्रमनिष्पन कार्यरूपतया खनित्या, चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरख गुरुखद्रवत्ववेगाख्यैरुपेता, तथाऽप्ययोगादापः, ताच रूपरसस्पर्श संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुखस्वाभाविकद्रवस स्नेहवेगवत्यः, तासु च रूपं शुकमेव रसो मधुर | एव स्पर्शः शीत एवेति, तेजस्वाभिसंबन्धात्तेजः तच्च रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्तनैमिचिकद्रवत्ववे १ आगोपालाशना प्र० Ja Eucation Ination For Park Use Only ~40~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy