SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [३६...], नियुक्ति: [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३६|| दीप नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः पबिधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नानो निक्षेपो भवतीत्यस्वार्थसाविर्भावनार्थ इति, नामस्थापने सुगम-18 खादनात्य द्रव्यादिकमधिकृत्याह–पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथावं प्राप्ती सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः, तदन्यथा खसमाधिरिति, यदिवा द्रन्ययोद्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा क्षीरशकरयोदेधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानका४ दिना समाधिर्भवति तद्रव्यं द्रग्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रग्यसमाधिरिति, क्षेत्रसमाधिस्तु | यस यसिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यान् क्षेत्रसमाधिः यस्मिन्वा क्षेत्रे समाधिविण्यंत इति, कालसमाधिरपि यस्य यं कालमवाप्प समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजा, यस्य वा यावन्तं कालं समाधिभवति यस्मिन्वा काले समाधियाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधि खधिकृत्याह-भावसमाधिस्तु दर्शनज्ञानतपचारित्रभेदाचतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापश्चार्धेनाह--मुमुक्षुणा चर्यत इति चरणं तत्र सम्य चरणे चारित्रे व्यवस्थितः-समुद्युक्तः साधुः' मुनिश्चतुर्वपि भावसमाधिभेदेषु दर्शनज्ञानतपचारित्ररूपेषु सम्यगाहितो व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति-यः सम्यकचरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि-दर्शनसमाधी व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथापूर्व श्रुतमधीते तथा तथाऽतीव भाव अनुक्रम [४७२] समाधि शब्दस्य निक्षेपा: ~3844
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy