________________
आगम
(०२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः: + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [ - ], मूलं [-], निर्युक्तिः [३०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृता शीलाङ्का
चाय
तियुर्त
॥ ११ ॥
Jan Educator
उद्देश - अर्थाधिकार:
नावसरे गण्डीताडनमिति भावसमयस्तु नोआगमत इदमेवाध्ययनम् अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमुपन्यास इति ॥ २९ ॥ साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह
महपंचभूय एकप्पए य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छट्टो अफलवादी ॥ ३० ॥ वीए निर्यवाओ अण्णानिय तहय नाणवाईओ । कम्मं चयं न गच्छर चउच्विहं भिक्खुसमर्थमि ॥ ३१ ॥ तइए आहाकम्मं कडवाई जह य ते य बाईओ । किब्रुवमा य चउत्थे परप्पवाई अविरएसु ॥ ३२ ॥ अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडर्थाधिकारा आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि - पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः । स चासौ जीवश्च तज्जीवः कायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्य मितियावदिति तृतीयोऽर्थाधिकारः । तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति | चतुर्थोऽधिकारः । तथाऽऽत्मा यष्ठ इति पञ्चानां भूतानामात्मा पष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः । तथाऽफलवादीतिन विद्यते कस्याचित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति । द्वितीयोदेशके चलारोऽर्थाधिकाराः, | तद्यथा-नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्म चयम्-उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये ' शाक्यागमे इति चतुर्थोऽर्थाधिकारः । चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम् - अविज्ञानमविज्ञातयोपचितम्, अनाभोगकृतमित्यर्थः, यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान कर्मोपचीयते, तथा परिज्ञानं परिज्ञा केवलेन मनसा पर्यालोचनं, तेनापि
For Pale Only
~ 33~
१ समया
ध्ययने उदेशार्थाधिकाराः
॥ ११ ॥