SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१४|| दीप अनुक्रम [३९४] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [ - ], मूलं [१४], निर्युक्ति: [९०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृता शीलाङ्का चाय चियुर्त ॥१५९॥ त्याग एव कृतो भवति, तस्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति पाठान्तरं वा 'आहारओ पंचकघज्ज्रणेणं' आहारत इति ल्यलोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरं गोमांसं मद्यं चेत्येतत्पश्ञ्चकवर्जनेन मोक्षं प्रवदन्ति तथैके 'वारिभद्रकादयो' भागवतविशेषाः 'शीतोदकसेवनेन' सचित्तापकायपरिभोगेन मोक्षं प्रवदन्ति, उपपत्तिं च ते अभिदधति - यथोदकं बाह्यमलमपनयति एवमान्तरमपि वस्त्रादेव यथोदकाच्छुद्धिरुपजायते एवं बास| शुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते तथैके तापसब्राह्मणादयो हुतेन मोक्षं प्रतिपादयन्ति, ये किल स्वर्गादि| फलमनाशस्य समिधाष्टतादिभिर्हव्यविशेषैर्हुताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुडति शेषास्त्रभ्युदयायेति, युक्तिं चात्र ते आहु:यथा ह्यग्निः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ।। १२ ।। तेषामसम्बद्धप्रलापिनामुत्तरदानायाह- 'प्रातः स्नानादिषु नास्ति मोक्ष' इति प्रत्युपजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादिप्रक्षालनं गृह्यते, तथाहि उदकपरिभोगेन तदाश्रितजीवानामुपमर्दः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति न चैकान्ते| नोदकं बाह्यमलस्याप्यपनयने समर्थम्, अथापि स्यात्तथाप्यान्तरं मलं न शोधयति, भावशुद्धया तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात्, तथा-'क्षारस्य' पञ्चप्रकारस्यापि लवणस्य 'अनशनेन' अपरिभोगेन मोक्षो नास्ति, तथाहि लवणपरिभोगरहितानां मोक्षो भवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात्, अपिचासौ प्रष्टव्यः किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः १, यदि १०कादेरेवेति प्र० । २ पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पञ्चप्रकारस्यापीति वृत्तिः ३ यणकादेरपि क्षारादिमवाकवणेति । Eucation Internationa For Parts Only ~329~ ७ कुशीलपरिभाषा. ।। १५९ ।।
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy