________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [३५९]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [-], मूलं [८], निर्युक्तिः [८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
नास्योचरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्म 'जिनानाम्' ऋषभादितीर्थकृतां सम्बन्धिनमयं मुनिः' श्रीमान् वर्धमानाख्यः 'काश्यपः' गोत्रेण 'आशुप्रज्ञः केवलज्ञानी उत्पन्नदिव्यज्ञानो 'नेता' प्रणेतेति ताच्छीलिकस्तून्, तद्योगे 'न लोकाव्ययनिष्ठे' ( पा० २-३-६९ ) त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो 'दिवि' स्वर्गे देवसहस्राणां 'महानुभावो' महाप्रभाववान् 'णम्' इति वाक्यालङ्कारे तथा 'नेता' प्रणायको 'विशिष्टो' रूपचलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥ ७ ॥ अपिच - असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया 'अक्षयः' न तस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन लाह-यथा 'सागर' इति, अस्य चाविशिष्टसाद विशेषणमाह- 'महोद| घिरिव' स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमगानन्तगुणा गम्भीराऽक्षोभ्या च यथा च असौ सागरः 'अनाविल:' अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथा — कषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तो मुक्तः, भिक्षुरिति कचित्पाठः, तस्यायमर्थः - सत्यपि निःशेषान्तरायक्षये सर्वलोक पूज्यले च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः 'द्युतिमान्' दीप्तिमानिति ॥ ८ ॥ किञ्च
१ स्थित्यपेक्षया ज्ञेयापेक्षया तु द्रव्यादिवदनायनन्तकालमोचरैव ।
For Parts Only
~302~
waryra