SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||8|| दीप अनुक्रम [३५५] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः: + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [-], मूलं [४], निर्युक्तिः [८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्ग शीलाङ्काचाय चियुतं ॥१४४॥ भगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुःपथे' लोचनमार्गे भवस्यकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानीहि' अवगच्छ 'धर्म' संसारोद्धरणखभावं, तत्प्रणीतं वा श्रुतचारित्राख्यं तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनखभावां 'धृतिं संयमे रतिं तत्प्रणीतां वा 'प्रेक्षख' सम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा - तैरेव श्रमणादिभिः सुधर्मखाम्पभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं व जानीषे ततोऽसाकं 'पेहि'त्ति कथयेति ॥ ३ ॥ साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयितुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति सास्तेजोवायुरूप विकलेन्द्रियपञ्चेन्द्रियभेदात् ४ त्रिधा, तथा ये च 'स्थावराः पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते प्राणिन इति, ४ अनेन च शाक्यादिमतनिरासेन पृथिव्याद्येकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षेण केवलज्ञानि४ खात् जानातीति प्रज्ञः [ ग्रन्थाग्रम् ४२५० ] स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञानेनार्थान् परिज्ञाय प्रज्ञापनायोम्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा - संसारार्ण|वपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वाद द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ 'धर्म' श्रुतचारित्राख्यं सम्पक् इतं गतं सदनुष्ठानतया रागद्वेपरहितलेन समतया वा, तथा चोक्तम् - "जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थद" इत्यादि, | समं वा धर्मम् उत्-प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति ॥ ४ किञ्चान्यत्--- १ यथा पूर्ण कथ्यते तथा तुच्छस्य कथ्यते ॥ For Parts Only ~299~ १६ श्रीमहावीरस्तुल्य. ॥१४४॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy