________________
आगम
(०२)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम
[१५४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [१२], निर्युक्तिः [४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| स्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! स्वतोऽग्दर्शी मवांस्तथाविधदर्शनप्रमाणश्च सन् कार्याकार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत्, यदिवा अदक्षो वा अनिपुणो वा दक्षो वा निपुणो वा यादृशस्तादृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शन:- केवलदर्शन:- सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धख, इदमुक्तं भवति - अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा- है 'अदृष्ट' हे अर्वाग्रदर्शन ! द्रष्टा- अतीतानागतव्यवहितसूक्ष्मपदार्थदशिंना यव्याहृतम् - अभिहितमागमे तत् श्रद्धख, हे अदृष्टदर्शन अदक्षदर्शन । इति वा असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान करोति ? येनैवमुपदि - श्यते, तनिमित्तमाह – 'हंदी' त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्ठु - अतिशयेन निरुद्धम् - आवृतं दर्शनं - सम्यग् अवबोधरूपं यस्य स तथा केनेत्याह-मोहयतीति मोहनीयं मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृतेन कर्मणा निरुद्धदर्शनः प्राणी सर्वज्ञोक्तं मार्ग न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति ॥ ११ ॥ पुनरप्युपदेशान्तरमाह-दुःखम् - असातावेदनी| यमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति सदसद्विवेक विकलो भवति, | इदमुक्तं भवति - असातोदयात् दुःखमनुभवन्नार्तो मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा 'पूजनं' वस्त्रादिला भरूपं परिहरेत्, 'एवम्' अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रब्रजितोऽपरप्राणिभिः
For Parts Only
~158~
nirary org