________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति : [२२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*%
प्रत सूत्रांक [१३३]
दीप अनुक्रम [१४६]
यदिवा पूर्व प्राश्निकान्निकाच्य ततः पाण्डिकान् प्रश्नयितुमाह-पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येक भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि, किं 'भे' युष्माकं 'सात' मनआहादकारि दुःखमुतासात-मन:प्रतिकूलं, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकवाधा स्याद्, अथ चासातमित्येवं ब्रूयुः ततः 'समिया' सम्यक् प्रतिपन्नांस्तान् प्रावादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात्-'अपिः' सम्भावने, सम्भाव्यते एतगणनं-यथा न केवलं भवतां दुःखमसात, सर्वेपामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम्-अनिवृत्तिरूपं महदयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् , तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीथिकपरीक्षाद्वारेण यथा निराकरणं चक्के तथा नियुक्तिकारो गाथाभिराचष्टे
खुड्डग पायसमासं धम्मकहंपि य अपमाणेणं । छन्नेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ २२७॥ अनया गाथया सझेपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथापादसङ्केपस्तमजल्पता धर्मकथां च 'छन्नेन' प्रकटेन 'अन्यलिङ्गिन' प्रावादुकाः 'परीक्षिता' निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-चम्पायां नगर्यो सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चाई
दर्शनभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्मबिचारं प्रस्तावयति, तत्र यो यस्या| भिमतः स तं शोभनमुवाच, सच तूष्णीभावं भजमानो राज्ञोक्ता-धर्मविचारं प्रति किमपि न ब्रूते भवान् ?, स वाह
%*-51-53-
5
NCCEPECAR
-5
मुद्रण-दोषात् '२२७' इति नियुक्ति: क्रम द्वितीय वारं लिखितं |
~88~