SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति : [२२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३३] दीप अनुक्रम [१४६] शाक्यास्तु वदन्ति-"यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्य वस्तु क्षणिक "ति, मीमांसकास्त मोक्षद सर्वज्ञाभावेन व्यवस्थिता इति, तथा केपाश्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे बनस्पतीनामप्यचेत|नतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्-प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः। पञ्चभिरापद्यते हिंसा ॥१॥" इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदिवा ब्राह्मणाः श्रमणा धर्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति-से दिहं चणे इत्यादि यावत् 'नत्थित्थ दोसो'त्ति, |'से'त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्ध दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणा-|| यकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुर्वादेः सकाशात् , अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम्अभिमतं युक्तियुक्तत्वादस्माकमस्मतीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तियक्षु दशस्वपि दिक्षु सर्वतः सर्वैः-प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितंच-पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह-सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, 'अत्रापि धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणिहननादौ 'दोषः' पापानुबन्ध इति, एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते । अयं SARSAADस्टस RE ~86
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy