________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२४],नियुक्ति : [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१२४]
दीप
मिकापायसन्दर्शनतो भयं भवति।तच भयं शस्त्राद्भवति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति?, अस्तीति दर्शयति'अत्थि' इत्यादि, तत्र द्रव्यशस्वं कृपाणादि तत्सरेणापिपरमस्ति-तीक्ष्णादपि तीक्ष्णतरम स्ति, लोहकर्तृसंस्कारविशेषात् , यदिबा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युपद्यते ततोऽप्यपरमिति, तद्यथा-कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽतिः तस्या ज्वरः ततोऽपि मुखशोषमूच्छोदय इति, भावशस्त्रपारम्पर्य त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शखस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह-'नस्थि' इत्यादि, 'नास्ति' न विद्यते, किं तद्-'शस्त्रं' संयमः तत् 'परेण पर मिति प्रकर्षगत्यापन्न मिति, तथाहि-पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीत्रभेदोऽस्तीति, पृधिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूई गुणस्थानाभावादिति भावः । यो हि क्रोधमुपादानतो बन्धतः स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानाविदयपीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याह
जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिजदंसी, जे पिजदंसी से दोसदंसी, जे दोसदसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से जम्मदंसी, जे जम्मदंसी से
अनुक्रम [१३७]
~62~