________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन H], उद्देशक [-], मूलं [१७४...], नियुक्ति: [३३७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
सूत्रांक
[१७४]
दीप अनुक्रम [५०८]
श्रीआचा- तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्र ज्ञान प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवरूपति, रामवृत्तिः
अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव (शी०) पदार्थाः, ते च तत्त्वज्ञानाधिना सम्यग् ज्ञातव्याः, तत्परिज्ञानमिहैव-आहेते प्रवचने दृष्टम्-उपलब्धमिति, तथेहैव-आईते
प्रवचने कार्य-परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारका-साधुः ॥४१९॥
सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धा-कर्मबन्धनं तस्मान्मोक्षः-कर्मविचटनलक्षणः, असावपीहेव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तधा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम् , अन्यद्वा यत्किश्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी कम्म खवेइ" इत्यादि, तथैभिश्च कारणैज्ञानमभ्यसनीय, तद्यथा-ज्ञानसङ्ग्रहार्थ निर्जरार्थम् अव्यवच्छित्त्यर्थ स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं | गुरुकुलवासो भवति, तथा चोक्तम्-"णाणस्स होइ भागी थिरयरओ देसणे चरित्ते य । धन्ना आवकहाए गुरुकुललावासं न मुञ्चन्ति ॥१॥", इत्यादिका ज्ञान विषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याह
१ज्ञानस्य भवति भागी स्थिरतरो पर्शने चारित्रे व ! पन्या यावत्कर्ष गुरुकुलवासे न मुञ्चन्ति ॥१॥
XXCAKAMK
॥४१९
~553