________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११५], नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराङ्गवृत्तिः (शी०)
प्रत सूत्रांक [११५]
॥१६५॥
दीप
यैर्यातयेत् विधातयेदिति, यद्यपि कांश्चित् स्थूलान सत्वान् स्वयं पापण्डिनो न नन्ति तथाऽप्यौदेशिकसन्निध्यादिपरिभो- शीतो०३ गानुमतेरपरैर्घातयन्ति । न चैकान्तेन पापकाकरणमात्रतया श्रमणो भवतीति दर्शयति-'जमिण' मित्यादि, यदिदंयदेतत् पापकर्माकरणताकारणं, किं तद्?, दर्शयति-अन्योऽन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो भयं।
उद्देशकः३ लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पाप-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ?, किं मुनिरितिकृत्वा पापकर्म न करोति?, काका पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तालापानुष्ठान विधायी न सञ्जज्ञे किमतावतैव मुनिरसौ ?, नैव मुनिरित्यर्थः, अद्रोहाध्यवसायो हि मुनिभावकारणं, स च तत्र न विद्यते, अपरोपाध्यावशात् , विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया है आधाकादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति?, आचार्य आह-सौम्य ! निरस्तापरब्यापारः शृणु-'जमिण'|मित्यादि, (अपरोपाधिनिरस्त हेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादित| क्रियस्य मुनिभावो नान्यथेति, अयं तावन्निश्चयनयाभिप्रायो व्यवहाराभिप्रायेण/ तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनिचिदाधाकर्मादि परिहरन प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्धासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः करोति, तत्र तस्य | मुनिभाव एव कारणं, तद्व्यापारापादितपारम्पर्य शुभाध्यवसायोपपत्तेः । तदेवं शुभान्तःकरणब्यापारविकलस्य मुनित्वे ॥१६५ ।। सदसद्भावः प्रदर्शितः, कथं तहिं नैश्चयिको मुनिभाव इत्यत आह
अनुक्रम [१२५]
~450