SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [११४/गाथा-२],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक श्रीआचा- राङ्गवृत्तिः (शी०) शीतो. उद्देशकः२ ॥१६४।। गाथा-२ लोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्तव्यमित्याह-'तम्हा' इत्यादि, यस्माल्लो- भाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः-वधाद्विरतः स्यात्, किं चछिंदिज' इत्यादि, शोकं भावोतो वा छिन्द्यात्-अपनयेत्, किम्भूतो?-लघुभूतो-मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, पुनरप्युपदेशदानायाह-'गन्थ' मित्यादि, 'ग्रन्ध' बाह्याभ्यन्तरभेदभिन्नं झपरिज्ञया परिज्ञाय इहाचैव कालानतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्यजेत् , किं च-'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयम चरेदिति, |किमभिसन्धाय संयम परेदित्याह--'उम्मज ल 'मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारादे जीवकच्छपः श्रुतिश्रद्धासंयमवीर्यरुपमुन्मजनमासाद्य-लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, क्त्वाग्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणनस्तेषां प्राणान-पवेन्द्रियत्रिविधवलोपट्टासनिश्वासायुष्कलक्षणान् 'नो समारभेथाः' न व्यपरोपयः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः। परिसमाप्ती, ब्रवीमीति पूर्ववत् । शीतोष्णीयाध्ययने द्वितीयोद्देशकटीका समाप्तेति । उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तरसहनं च प्रति-I पादितं, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुदेशार्थाधिकारनिर्दिष्टमुच्यते, ततोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् दीप अनुक्रम H ॥१६४॥ तृतीय-अध्ययने तृतीय-उद्देशक: 'अक्रिया' आरब्धः, ~43~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy