SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६२] दीप अनुक्रम [३९६] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६२], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३५७ ॥ | शरिकाभिः कृतं सूर्पादि 'परगं' वंशनिष्पन्नं छब्बकादि 'वरगं' मण्यादि महार्घमूल्यं, शेषं सुगमं यावत्परिगृह्णीयादिति अत्र च संसृष्टा संसृष्टसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ॥ अपरा चतुर्थी | पिण्डेषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात् तद्यथा-'पृथुकम्' इति भुशाल्याद्यपगततुषं यावत् 'तन्दुउपलम्' इति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्यं तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम्, अन्यदपि वलचनकादि यावत्परिगृह्णीयादिति ॥ अथापरा पञ्चमी पिण्डेषणावगृहीता नाम, तद्यथा-स भिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात् तत्पुनर्भाजनं दर्शयति, तद्यथा - 'शरावं' प्रतीतं 'डिण्डिम' कंश (कांस्य) भाजनं 'कोशकं' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं स्यात्, तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्व हुपर्यापन्नः परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति ॥ अथापरा पष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थ परार्थ वा पिठरकादेरुवृत्त्य चट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रत्रजिताय वा दापिता सा प्रकर्षेण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिकां 'पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापन्नां वा' हस्तस्थितां वा यावत्प्रतिगृह्णीयादिति ॥ अथापरा सप्तमी पिण्डैपणा उज्झितधर्मिका नाम, सा च सुगमा ॥ आसु च सप्तस्वपि पिण्डैपणासु संसृष्टाद्यष्टभङ्गका भणनीयाः, नवरं चतु| नानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां Education Internationa For Parts Use Only ~429~ श्रुतस्कं० २ २ चूलिका १ पिण्डैष०१ उद्देशः ११ ॥ ३५७ ॥ waryra
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy