SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [११३] दीप अनुक्रम [१२१] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [११३],निर्युक्तिः [२१४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः ०१% ०%%%%%%%% अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अण्णपरियाare अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए (सू० ११३) अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासावने कचित्तः, खलुरवधारणे, संसारसुखाभिलाप्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण चं | दृष्टान्तो वाप्य इति । यश्चानेकचित्तो भवति स किं कुर्यादित्याह - 'से केयण मित्यादि, द्रव्यकेतनं चालिनी परिपू र्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभृतपूर्वं पुरवितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपि प्रवर्त्तत इत्युक्तं भवति, स च लोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह --' से अण्णवहाए' इत्यादि, स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां बधाय भवति, तथाऽन्येषां शारीरमानस परितापनाय तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्बधाय, मगधादिजनपदा वा तद्वधाय तथा जनपदानां लोकानां परिवादाय-दस्युरयं पिशुनो वेत्येवं मर्मोद्घट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय प्रभवतीति सर्वत्राध्याहारः ॥ किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्व्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति--- 'आसेवित्ता एतं (वं) अटुं इच्चेवेगे समुट्टिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय Education International For Penal Use Only ~40~ www.anibrary.org
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy