________________
+ आग
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [११०/गाथा-१], नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राङ्गवृत्तिः (शी०) ॥१५९॥
शीतो०३ उद्देशका २
||१||
दीप अनुक्रम [११५]
परम' मोक्ष ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह
उम्मुंच पासं इह मच्चिपहि, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचयं क
रंति, संसिच्चमाणा पुरिति गम्भं ॥२॥ 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन 'मुच' अपाकुरु, स हि कामभोगलालसस्तदादानहेतोहिंसादीनि पापान्यारभते अतोऽपदिश्यते-आरंभ' इत्यादि, आरम्भेण | जीवितुं शीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहपरिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शील|मस्येति स तथा, किं च-'कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धा-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभतात्मा किंभूतो भवतीत्याह
अवि से हासमासज्ज, हंता नंदीति मन्नई। अलं बालस्स संगण, वेरं बवेइ अप्पणो॥३॥ हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य 'स' कामगृचहत्वाऽपि प्राणिनो 'नन्दीति क्रीडेति मन्यते,
॥१५९॥
~334