________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-११],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उपधार
प्रत
सूत्रांक
||११||
दीप अनुक्रम [२७५]
श्रीआचा- थितः अवबद्धो 'मिथः' अन्योऽन्य 'कथासु' स्वैरकथासु समये वा कश्चिदवबद्भस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मिराङ्गवृत्तिःनवसरे 'ज्ञातपुत्रो' भगवान विशोको विगतहर्षश्च तान्मिथःकथाऽववद्धान मध्यस्थोऽद्राक्षीत् , एतान्यन्यानि चानुकूलपति(शी०) कूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् 'गच्छति' संयमानुष्ठाने पराक्रमते, ज्ञाता:-क्षत्रियास्तेषां
पुत्रः-अपत्यं ज्ञातपुत्रः-वीरवर्द्धमानस्वामी स भगवान्सद्दुःखस्मरणाय गच्छति-पराक्रमत इति सम्बन्धः, यदिवा शरणं॥३०॥
गृहं नात्र शरणमस्तीत्यशरणः-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि-किमत्र चित्रं यद्भगवानपरिमितवलपराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते इति?, स भगवानप्रनजितोऽपि प्रासुकाहारानुवासीत् , श्रूयते च किल पञ्चत्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रवित्रजिषुः ज्ञातिभिरभिहितो, यधा-भगवन्! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच-कियन्तं कालं पुनरत्र मया स्थातव्यमिति?, ते ऊचुः-संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं स्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविधाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ ततो भगवांस्तद्वचनमनुवयात्मीयं च निष्क्रमणावसरमवगम्य संसारासारता| विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा-अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तो, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता-स्थगिताऽर्चा-क्रोधज्वाला येन स तथा,
ANCHAR
॥३३॥
~3214