SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२२६...],नियुक्ति : [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२२६] दीप अनुक्रम [२६४] प्रतिसमयं सङ्कामयति, तत्रापि प्रथमसमये स्तोक द्वितीयादिष्वसङ्ख्येयगुणं एवं यावच्चरमसमये सर्वसङ्क्रमेणावलिकागतं मुक्त्या सर्व सङ्कामयति, आवलिकागतमपि स्तिबुकसङ्कमेण वेद्यमानास्वपरप्रकृतिषु सङ्कामयति, एवमनन्तानुबन्धिनो Pl विसंयोजिता भवन्ति । इदानी दर्शनत्रिकोपशमना भण्यते-तत्र मिथात्वस्योपशमको मिथ्यादृष्टिवेदकसम्यग्दृष्टि सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाके-| नानुभूयोपशान्तमिथ्यात्वः सन्नुपशमसम्यग्दृष्टिर्भवतीति । साम्प्रतं वेदकसम्यग्दृष्टिरुपशमणि प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तमौहर्तिकी करोति, इतरां त्वावलिकामात्रां, ततः किश्चिन्यूनमुहूर्त्तमात्रां स्थिति खण्डयित्वा बध्यमानानां प्रकृतीनां स्थितिवन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थितौ प्रक्षिपन्नेत्येवमनया प्रक्रियया सम्यक्त्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिबुकसङ्कमेण सङ्कमयति, तस्यामपि सम्यक्त्वप्रथमस्थिती क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति । तदनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरण-12 मप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानक, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमापूर्वस्थितिबन्धा योगपद्येन पञ्चाप्यधिकाराः प्रवर्त्तन्ते, तत्रापूर्वकरणसङ्ख्येयभागे गते निद्राप्रचलयोर्वन्धव्यवच्छेदो भवति, ततोऽपि बहुपु स्थितिकण्डकसहस्रेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम ~312~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy