________________
आगम
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-२०],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२०||
दीप अनुक्रम [२५९]
धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति ॥ १८॥ गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याहअनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, (न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याइभिविधी सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततरः, यदिवाऽयमनयोरतिशयेनात्तो-गृहीत आत्ततरः, यलेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो-दृढतरः स्याद्भवेत् , अत्रापि यदिङ्गितमरणे प्रत्रज्यासलेखनादिकमुक्तं तत्सर्व द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयतिन्यो भिक्षुः 'एवम् उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूच्र्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृद्रपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात्-प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युद्धमेत्-न स्थानान्तरं यायात् ॥ १९॥ किं च-'अय' मित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो मरणविधिः सर्वो-| |त्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति-'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थे षष्ठी पूर्वस्थानाद्भक्तपरिज्ञेजितमरणरूपाप्रकर्षण अहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि-अत्र यदिङ्गि
तमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यतें अच्छिन्नमूलपादपवन्निश्चेष्टो निष्कियो दह्यमानश्छिद्यमानो वा विषमप४ तितो वा तथैवास्तेन तस्मात्स्थानाञ्चलति, चिलातपुत्रवत्, एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना
प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले बिहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्त, तच्च स्थाना
ForParaaEEDROIN
~ 302~