________________
आगम
(०१)
प्रत
सूत्रांक
[ १०९ ]
दीप
अनुक्रम [११३]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [ १०९], निर्युक्तिः [२१४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
(शी०)
॥ १५७ ॥
श्रीआचा- 2 मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । आयुषो द्वे सत्कर्म्मतास्थाने सामान्येन तद्यथा-परभवाराङ्गवृत्तिः युष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्बन्धाभाव इति । नानो द्वादश सत्कर्म्मतास्थानानि, तद्यथा-बिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ पट्सततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः - गतयश्चतस्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पश्च सङ्घाताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् ६ वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपघातपराधातोच्छ्रासातपोद्योताः षट् ६ प्रशस्तेतर विहायोगतिद्वयं २ प्रत्येकशरीर त्रस शुभसुभगसुस्वरसूक्ष्मपर्याप्त कस्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनयतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोद्बलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बनतः तङ्गत्यानुपूर्वीद्वय वैक्रियचतुष्कवन्धकस्य पडशीतिः देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वलनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्वलनेऽष्टससतिः ७८, एतान्यक्षपकाणां सत्कर्म्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेर्नर कतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनै कोननवतिः सञ्जाता
Education International
For Penal Use Only
~29~
शीतो० ३ उदेशकः १
॥ १५७ ॥
or