________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [५], मूलं [२१७],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२१]
दीप अनुक्रम [२३०]
जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः । तदेवमन्येन साघम्मिकेण वैयावृत्त्वं क्रियमाणमनुज्ञातं, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह-'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्विशेषदर्शनार्थः, 'खलु' वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्ता-अनभिहितः प्रतिज्ञप्तस्य-वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाक्ष्य साधम्मिकस्य वैयावृत्त्यं कुर्या, किमर्थ?-'करणाय' तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञा | परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गि
कामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञा गृह्णाति, तद्यथा-लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च ४ वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां |
प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहृत्य-प्रतिज्ञा गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूता, तद्यथा-नान्वीक्षिष्येऽपरनिमित्तमाहा-15 रादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४, एवम्भूतां च नानाप्रकारांप्रतिज्ञा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-'एवम्' उक्तविधिना 'स' भिक्षुरवगततत्वः शरीरादिनिष्पिपासुः यथाकीर्तितमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्-आसेवनापरिज्ञया आसेवमानः, तथा लापविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः कषायोपशमाच्छ्रान्तो वा अ
SARERuralordNT
aurwancharary.orm
~278~