SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०४],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२०४] दीप पहारेण सहसात् कारयत-आशु पञ्चत्वं नयत तथा विविध परामृशत-नानापीडाकरणैर्वाधयत, तांश्चैवम्भूतान् 'स्स-| पर्शान्' दुःखविशेषान 'धीरः' अक्षोभ्यः तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरीपहः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसग्गैः परीषहर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपि तु सति सामर्थ्य जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवा साधूनामाचारगोचरम्-आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचार, तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैपणाविशुद्धिमाचक्षीत, अत्र च पिण्डैपणासूत्राणि पठितव्यानि, अपि च-"यदि स्वयमदुःखितं स्याम च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकर धम्मकृते तद्भवेद्देयम् ॥ १॥" किं सर्वस्य सर्वं कथ-| येत् !, नेति दर्शयति-तर्कयित्वा' पर्यालोच्य पुरुष, तद्यथा-कोऽयं पुरुषः कश्च नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यां च शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदृशम्-अनन्यसदृशं स्वपरपक्षस्थापनाब्युदासद्वारेणावेदयेदिति, अथ सामथ्यविकलः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थे शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे'त्यन्यधाभावे तु वागुप्त्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्ध्यादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः?-आत्मगुप्तः सन् , सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह-'बुद्धैः' कल्प्याकल्प्यविधि ः एतत्' पूर्वोकं प्रवेदितम् ॥ एतद्बा वक्ष्यमाणमित्याह अनुक्रम [२१७] ~260~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy