________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०९], नियुक्ति: २१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१०९]
दीप अनुक्रम [११३]
त्यादि, हे मतिमन् ! सश्रुतिक! भावसुधातुरान् पश्य, मत्वा चैतज्जायतसप्तगुणदोषापादनं मा स्वापमतिं कुरु, कि । च-'आरंभज'मित्यादि, आरम्भः-सावधक्रियानुष्ठानं तस्माजातमारम्भजं, किं तद्-दुःखं तत्कारणं वा कम्मे । इद'मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तपाणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह-'माई' इत्यादि, मध्यग्रहणाचाद्यन्तयोग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह-उबेह' इत्यादि, बहुवचननिर्देशादाद्यर्थों गम्यते, शब्दरूपादिषु यो रागद्वेषी तावुपेक्षमाणः-अकुर्वन् ऋ-
जुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः ख्यादिपदार्थान्यथाग्रहणाहूक्रः, किं च-स ऋजुः हा शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की-मरणादुद्विजस्तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोतीत्याह-अप्पमत्ता
इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद्?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति 31-'उबरओ' इत्यादि, उपरतो मनोवाकायैः, कुतः-पापोपादानकर्मभ्यः, कोऽसी-बीर, किम्भूतो?-गुप्तात्मा, कश्च|3||
गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञः स के गुणमवाप्नुयादित्याह-'जे पज्जव' इत्यादि, शब्दादीनां विषयाणां पर्यवा:विशेषास्तेषु-तनिमित्तं जातं शस्त्रं पर्यवजातशत्रं-शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यवजातशत्रं तस्य पर्यवजातशत्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशत्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति-यः शब्दादिपर्यायानिष्टानिष्टात्मकान् तत्राप्तिपरिहारानुष्ठानं च
~26~