________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [२], मूलं [२०३],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२०३]
दीप अनुक्रम [२१६]
आवसहं वा समुस्सिणाइ, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासे
वणाए तिबेमि (सू० २०३) तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्देनारभेत, किमर्थमिति चेद्दर्शयति-तदशनादिकं भिक्षु परिघासयितुं' भोजयितुं, साधुभोजनार्थमित्यर्थः, आवसथं च साधुभिरधिवासयितुमिति, तदशनादिकं साध्वर्थ निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात्, कथमित्याह-वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा अन्येभ्यो वा तत्सरिजनादिभ्यः श्रुत्वा जानीयादिति वर्त्तते, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्रा|ण्युपमर्दैन विधाय मह्यं ददात्यावसथं च समुच्छृणोति, तद्भिक्षुः सम्यक् 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेधनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापनं कुर्याद्, यद्यसी श्रावकस्ततो लेशतः पिण्डनियुक्तिं कथयेद्, अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानाविर्भावयेत् प्रासुकदानफलं च प्ररूपयेत् , यथाशक्तितो धर्मकां च कुर्यात् , तद्यथा-"काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सन्यः ॥१॥" तथा-"दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते ॥ २ ॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन । लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥३॥” इत्यादि, इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह
For P
OW
~258~